SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Jain Educatio तत्र धर्मोपकरणे वाह्य एव परिग्रह इति । इतरस्त्वान्तरपरिग्रहो मिथ्यात्वादिरेव, आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते, परिगृह्यते तेन कारणभूतेन कर्मणा जीवः । इति गाथार्थः ॥ ७ ॥ त्यागशब्दार्थ व्याचिख्यासुराह - ओइमेसि सम्मं मणवयका एहिं अप्पवित्तीओ। एसा खलु पव्वज्जा मुक्खफला होइ निअमेणं ॥८॥ 'त्यागः' प्रोज्झनम् 'अनयोः' आरम्भपरिग्रहयोः 'सम्यक्' प्रवचनोक्तेन विधिना 'मनोवाक्कायैः' त्रिभिरपि 'अप्रवृत्तिः ' एव आरम्भे परिग्रहे च मनसा वाचा कायेनाप्रवर्त्तनमिति भावः । 'एषाखलु' इति एषैव 'प्रव्रज्या' यथोक्तस्वरूपा 'मोक्षफला भवति' इति, मोक्षः फलं यस्याः सा मोक्षफला भवति 'नियमेन' अवश्यंतया, भावमन्तरेणा रम्भादौ मनोप्रवृत्यसम्भवात् । इति गाथार्थः ॥ ८ ॥ उक्ता प्रब्रज्या भेदतः, अधुनैतत्पर्यायानाह पव्वज्जा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाइं तु ॥ ९ ॥ 'प्रव्रज्या' निरूपितशब्दार्था, 'निष्क्रमणं' द्रव्यभावसङ्गात्, 'समता' - सर्वेष्विष्टानिष्टेषु 'त्यागः ' बाह्याभ्यन्तरपरिग्रहस्य ' तथैव वैराग्यं' विषयेषु, 'धर्म्मचरणं' क्षान्त्याद्यासेवनम् 'अहिंसा' - प्राणिघातवर्जनम्, 'दीक्षा' - सर्वसत्त्वाभयप्रदानेन भावसत्रं, 'एकार्थिकानि तु' एतानि प्रव्रज्याया एकार्थिकानि, तुर्विशेषणार्थः, शब्दनयाभिप्रायेण । समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृत्तिनिमित्तत्वात् सर्वशब्दानाम् । इति गाथार्थः ॥ ९ ॥ सेति व्याख्यातम्, अधुना केनेत्येतद् व्याख्यायते, तत्र योग्येन गुरुणा, स चेत्थंभूत इत्याह tional For Private & Personal Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy