________________
पव्वज पढमदारं सा केणं केसि कमिव कहं वा। दायव्वत्ति निरुच्चइ समासओ आणुपुठवीए॥४॥दार।
'प्रव्रज्या' वक्ष्यमाणशब्दार्था 'प्रथमद्वारम्' इह प्रकरणे प्रथमोऽधिकारः, सा नामादिभेदभिन्ना निरुच्यते- तथा केन' इति किंविशिष्टैनगुरुणा दातव्यतन्निरुच्यते, तथा 'केभ्य' इति किंविशिष्टेभ्यः शिष्येभ्यो दातव्यति, तथा 'कस्मिन्' इति कस्मिन् वा क्षेत्रादौ, 'कथं वा' इति केन वा प्रश्नादिप्रकारेण 'दातव्या' इति न्यसनीया, "निरुच्यते' निराधिक्येन प्रकटार्थतामङ्गीकृत्योच्यते निरुच्यते, 'समासतः' इति सङ्केपेण, न पूर्वाचार्यैरिव विस्तरेणेति 'आनुपूर्व्या' इति आनुपूर्व्या परिपाट्या क्रमेणोच्यते । इति गाथार्थः ॥४॥ तत्र 'तत्वभेदपर्यायैर्व्याख्या' इति न्यायमङ्गीकृत्य तत्वतः प्रव्रज्यां प्रतिपादयन्नाहपव्वयणं पव्वजा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइवयणं कारणकजोवयाराओ॥५॥
'प्रव्रजनं प्रव्रज्या' प्र-इति प्रकर्षेण ब्रजनं प्रव्रजनं, कुतः क्वेत्यत आह-'पापाच्छुद्धचरणयोगेषु' इह पापशब्देन पापहेतवो गृहस्थानुष्ठानविशेषा उच्यन्ते, कारणे कार्योपचारात्-यथा “दधित्रपुषी प्रत्यक्षो ज्वर" इति, शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकादिप्रत्युपेक्षणादय उच्यन्ते 'इय' एवं 'मोक्षं प्रतिव्रजन' प्रव्रज्या। कथमित्याह 'कारणे कार्योपचारात्' कारणे शुद्धचरणयोगलक्षणे मोक्षाख्यकार्योपचारात्-“यथा आयुर्घतम्" इत्यायुषः कारणत्वाद् घृतमेवायुः,
CAT
Jain Educaticultational
For Private Personel Use Only
KILuinelibrary.org