SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 5453 प्रमार्जनादुपधेः रेण्वाक्रान्तोपविशनेन, धावनाधावनयोर्दोषा एव कायात्मविराधनादय इति गाथार्थः ॥ ६६॥ प्रतिद्वार गाथायां प्रमार्जनेति व्याख्यातं, साम्प्रतं पात्रकाण्यधिकृत्य प्रत्युपेक्षणामेवाहचरिमाए पोरिसीए पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा पन्नत्ता वीयरागेहिं ॥२६७॥ चरिमायां पौरुष्यां प्राप्तायां, चतुर्भागावशेषे प्रहर इत्यर्थः, भाजनानां प्रत्युपेक्षणा क्रियते, सा पुनरनेन-वक्ष्य४माणलक्षणेन विधिना प्रज्ञप्ता 'वीतरागैः' तीर्थकरगणधरैरिति गाथार्थः॥ ६७ ॥ तत्र चरमायां विधिनैव प्रत्युपेक्षणा कर्तव्या, यत आह__तीआणागयकरणे आणाई अविहिणाऽवि ते चेव। तम्हा विहीऍ पेहा कायदा होइ पत्ताणं ॥२६८॥ __ 'अतीतानागतकरणे' अतिक्रान्तायां चरमायां अप्राप्तायां वा प्रत्युपेक्षणाकरणे 'आज्ञादयः' आज्ञाऽनवस्थादयो दोषाः, अविधिनाऽपि प्रत्युपेक्षणाकरणे त एवाज्ञादय इति, यस्मादेवं तस्माचरमायामेव विधिना वक्ष्यमाणस्वरूपेण प्रत्युपेक्षणा वक्ष्यमाणैव कर्त्तव्या भवति पात्रयोः, पुनः स्वाध्यायसंश्रये आचार्यप्रणामं कृत्वा तदभावे चाभिवन्द्योत्थायैवेति गाथार्थः ॥ ६८॥ प्रत्युपेक्षणाविधिमाह__ भाणस्स पास बिट्टो पढमं सोआइएहिं काऊणं । उवओगं तल्लेसो पच्छा पडिलेहए एवं ॥२६९॥ भाजनस्य पार्श्व उपविष्ट इत्यत्र मात्रकाद् वितस्त्यन्तरं व्यवस्थापितस्य मूलभाजनस्य आसन्ने उपविष्टः प्रथमं मुख Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy