SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सखीवृता रघोः पुत्री, चन्द्रवत्यभिधानतः । स्नातुं रजखला गङ्गामियाय गुणमण्डिता ॥ १०३४ ॥ आघ्रायमाणे कमले, शुक्रं तत् पत्रसंस्थितम् । प्रविष्टं जठरे तस्या, बभूव गर्भसंभवः ॥ १०३५॥ विलोक्य तां गर्भवती, त्रस्तो लोकापवादतः। पिता निवेशयामास, सद्य एकाकिनी वने ॥ १०३६ ॥ साऽसूत तनयं बाला, तृणबिन्दुमुनेर्मठे । इवार्थनाशं दुर्नीतिः, कीर्तिविध्वंसकारणम् ॥ १०३७ ॥ गवेषय खं जनकं, ब्रज त्वमिति भाषिणी। मञ्जूषायां निवेश्यैषा, बालं गङ्गाजलेऽमुचत् ॥ १०३८॥ तरन्तीं तत्र मञ्जूषां, निष्काश्योद्दालको मुनिः। खवीर्यजं सुतं ज्ञात्वा, जग्राह ज्ञानभास्करः ॥१०३९ ॥ तत्रागतां चन्द्रवती, मार्गयन्ती सुतं निजम् । प्रदर्य बालं तामाह, भव त्वं मे प्रियाऽधुना ॥ १०४०॥ साऽऽचष्ट पितृदत्ताऽहं, भवामि स्त्री मुने! तव । गच्छ त्वं मम निःशङ्क, जनकं प्रार्थयाधुना ॥१०४१॥ प्रार्थितस्तेन भूमीशः, कृत्वा तां कन्यकां पुनः । विवाह्य दयितां चक्रे, साधोस्तस्य प्रमोदतः ॥ १०४२ ॥ अथ चन्द्रवती कन्या, कथं जातेऽपि देहजे? । कथं न जायते माता, मदीया मयि कथ्यताम् ॥ १०४३ ॥ इत्थं निरुत्तरीकृत्य, वैदिकानेष खेचरः। विमुच्य तापसाकारं, गत्वा काननमभ्यधात् ॥१०४४॥ अहो लोकपुराणानि, विरुद्धानि परस्परम् । न विचारयते कोऽपि, मित्र ! मिथ्यात्वमोहितः॥ १०४५॥ अपत्यं जायते स्त्रीणां, फनसालिङ्गने कुतः । मनुष्यस्पर्शतो वल्यो, न फलन्ति कदाचन ॥ १०४६ ॥ in Educatan i For Private & Personel Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy