SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ऋषीणां वचसाऽनेन, ज्ञात्वा मातुरदोषताम् । एकावस्थं तपः कुर्वन् , वत्सरं तापसाश्रमे ॥ ९८३ ॥ महीमटाट्यमानोऽहं, तीर्थयात्रापरायणः । ततः पत्तनमायातो, युष्मदीयमिदं द्विजाः ॥९८४ ॥ आचक्षत ततो विप्राः, कोपविस्फुरिताधराः। ईदृशं शिक्षितं दुष्ट!, क्यासत्यं जल्पितुं त्वया ॥ ९८५॥ कृत्वैकत्रानृतं सर्व, नूनं त्वं वेधसा कृतः। असंभाव्यानि कार्याणि, परथा भाषसे कथम् ? ॥ ५८६ ॥ आचष्टे स्म ततः खेटो, विप्राः! किं जल्पतेदृशम् । युष्माकं किं पुराणेषु, कार्यमीदृग् न विद्यते ? ॥९८७॥ ततोऽभाष्यत भूदेवैरीदृशं यदि वीक्षितम् । त्वया वेदे पुराणे वा, क्वचिद्भद्र ! तदा वद ॥ ९८८ ॥ आख्यत् खेटो द्विजा! वच्मि, परं तेभ्यो विभेम्यहम् । विचारेण विना यूयं, ये गृहीथाखिलं वचः ॥९८९॥ येषां वेदपुराणेषु, ब्रह्महत्या पदे पदे । ते गृह्णीथ कथं यूयं, कथ्यमानं सुभाषितम् ? ॥९९० ॥ पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥९९१ ॥ मनुव्यासवशिष्टानां, वचनं वेदसंयुतम् । अप्रमाणयतः पुंसो, ब्रह्महत्या दुरुत्तरा ॥ ९९२ ॥ अवादि वैदिकैर्भद्र!, वाक्यतः पातकं कुतः । निशातो गदितः खगो, लुनीते रसनां बहिः ॥ ९९३॥ वचनोचारमात्रेण, कल्मषं यदि जायते । तदोष्णो वह्निरित्युक्ते, वदनं किं न दह्यते? ॥ ९९४ ।। आचक्ष्व तं (तत्) पुराणार्थ, यथावृत्तमशङ्कितः। वयं नैयायिकाः सर्वे, गृहीमो न्यायभाषितम् ॥ ९९५॥ BRAHASUARARAA***** Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy