________________
॥ १८ ॥
Jain Education International
कृषिकर्म्मोचितं सद्यः, शुद्धं हस्ततलोपमम् । अकारि हालिकेनेदमन्यायेनेव मन्दिरम् ॥ ४५० ॥ तोपतो दर्शितं तेन राज्ञः क्षेत्रं विशोधितम् । अज्ञानेनापि तुष्यन्ति, नीचा दर्पपरायणाः ॥ ४५१ ॥ हालको भणितो राज्ञा, किमत्रोसं त्वयेदृशे । तेनोक्तं कोद्रवा देव ! सम्यक् कृष्ट्रा महाफलाः ॥ ४५२ ॥ विलोक्य दुर्मतिं तस्य, भुभुजा भणितो हली । दग्धानामत्र वृक्षाणां किं रे किञ्चन विद्यते ॥ ४५३ ॥ हस्तमात्रं ततस्तेन, खण्डमानीय दर्शितम् । दग्धशेषं तरोरेकं राज्ञा दृष्ट्वा स भाषितः ॥ ४५४ ॥ विक्रीणीमहे त्वं नीत्वा भद्र ! लघु व्रज । तेनोक्तं देव ! किं मूल्यं ? काष्ठस्यास्य भविष्यति ॥ ४५५ ॥ हसित्वा भुभुजा भाषि, हालिको बुद्धिदुर्विधः । तदेव भद्र ! गृह्णीया, यत्ते दास्यति वाणिजः ॥ ४५६ ॥ हट्टे तेन ततो नीतं, काष्ठखण्डं विलोक्य तत् । दीनारपञ्चकं तस्य, मूल्यं प्रादत्त वाणिजः ॥ ४५७ ॥ हालकोऽसौ ततो दध्यौ, विषादानलतापितः । अज्ञात्वा कुर्व्वतः कार्ये, तापः कस्य न जायते १ ॥ ४५८ ॥ यदीदं लभ्यते द्रव्यं, खण्डेनैकेन विक्रये । समस्तानां तदा मूल्यं, वृक्षाणां केन गण्यते ? ॥ ४५९ ॥ निधानसदृशं क्षेत्रं, वित्तीर्ण मम भुभुजा । अज्ञानिना च तद्यर्थ, हारितं पापिना मया ॥ ४६० ॥ अकरिष्यमहं रक्षां द्रुमाणां यदि यत्नतः । अभविष्यत्तदा द्रव्यमाजन्म सुखसाधनम् ॥ ४६१ ॥ इत्थं स हालिको दूनः पश्चात्तापाग्निना चिरम् । दुःसहेनाऽतिवीर्येण विरहीव मनोभुवा ॥ ४६२ ॥
For Private & Personal Use Only
परीक्षा.
॥ १८ ॥
www.jainelibrary.org