SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥ १४ ॥ Jain Education International तस्यालोक्य जनातीतं, मन्त्री त्यागमभाषत । कुमारेण विभो ! सर्वः, कोशो दत्वा विनाशितः ॥ ३४६ ॥ ततोsवादीन्नृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ? ॥ ३४७ ॥ नृपं मन्त्री ततोऽवादीदुपायं विदधाम्यहम् । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ ३४८ ॥ प्रदायाभरणं लौहं, लोहदण्डं समर्प्य सः । समर्थ जनघाताय, कुमारमभणीदिति ॥ ३४९ ॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥ ३५० ॥ ब्रूयाल हमिदं यो यस्तं तं मूर्धनि ताडयेः । कुमार ! लोहदण्डेन, मा कार्षीः करुणां कचित् ॥ ३५१ ॥ प्रतिपन्नं कुमारेण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ ३५२ ॥ ततो लोहमयं दण्डं, गृहीत्वा स व्यवस्थितः । रोमाञ्चितसमस्ताङ्गस्तोषाकुलितमानसः ॥ ३५३ ॥ योऽवदद्भूषणं लौहं, मस्तके तं जघान सः । व्युद्धाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ? ॥ ३५४ ॥ सुन्दरं मन्यते प्रासं यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व्व, केनासौ बोध्यतेऽधमः १ ॥ ३५५ ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युद्धाही मतः प्राज्ञैः खकीयाग्रहसक्तधीः ॥ ३५६ ॥ शक्यते मन्दरो भेत्तुं जातु पाणिप्रहारतः । प्रतिबोधयितुं शक्यो, व्युद्धाही न च वाक्यतः ॥ ३५७ ॥ अज्ञानान्धः शुभं हित्वा, गृह्णीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवर्ण, दीनो भूषणमायसम् ॥ ३५८ ॥ For Private & Personal Use Only परीक्षा. ॥ १४ ॥ www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy