________________
मद्यतो न परं कष्ट, मद्यतो न परं तमः । मद्यतो न परं निन्द्यं, मद्यतो न परं विषम्॥ १४२४ ॥ तं तं नमति निर्लजो, यं यमग्रे विलोकते । रोदिति भ्रमति स्तौति, रीति गायति नृत्यति ॥ १४२५ ॥ मद्यं मूलमशेषाणां, दोषाणां जायते यतः। अपथ्यमिव रोगाणां, परित्याज्यं ततः सदा ॥ १४२६ ॥ अनेकजीवघातोत्थं, म्लेच्छलालाविमिश्रितम् । खाद्यते मधु न त्रेधा, पापदायि दयालुभिः ॥ १४२७ ॥ यच्चित्री(त्र) प्राणिसङ्कीर्णे, प्लोषिते ग्रामसप्तके । माक्षिकस्य तदेकत्र, कल्मषं भक्षिते कणे ॥ १४२८॥ मक्षिकाभिर्यदादाय, रसमेकैकपुष्पतः । सञ्चितं तन्मधूत्सृष्टं, भक्षयन्ति न धामिकाः ॥ १४२९ ॥ मांसमद्यमधूत्था ये, जन्तवो रसकायिकाः । सर्वे तदुपयोगेन, भक्ष्यन्ते निष्कृपैरिमे ॥ १४३०॥ फलं खादन्ति ये नीचाः, पञ्चोदुम्बरसम्भवम् । पश्यन्तोऽङ्गिगणाकीर्ण, तेषामस्ति कुतः कृपा ? ॥ १४३१॥ मुञ्चद्भिर्जीवविध्वंसं, जिनाज्ञापालिभिस्त्रिधा । उदुम्बरफलं भक्ष्यं, पञ्चधापि न सात्त्विकैः ॥ १४३२॥ कन्दमूलं फलं पुष्पं, नवनीतं कृपापरैः । अन्नमन्यदपि त्याज्यं, प्राणिसम्भवकारणम् ॥ १४३३॥ कामक्रोधमदद्वेष-लोभमोहादिसंभवम् । परपीडाकरं वाक्यं, त्यजनीयं हितार्थिभिः ॥ १४३४ ॥ धर्मो निसूद्यते येन, लोको येन विरोध्यते । विश्वासो हन्यते येन, तद्वचो भाष्यते कथम् ? ॥ १४३५॥ लाघवं जन्यते येन, यन्म्लेच्छैरपि गीते । तदऽसत्यवचो वाच्यं, न कदाचिदुपासकैः ॥ १४३६ ॥
Jain Education
For Private & Personel Use Only
Y
w.jainelibrary.org