SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विवाहावसरे भर्तरयोध्यां त्रिदशेश्वरः । भक्त्या स्वर्णमयीं चक्रे, दिव्यप्राकारमन्दिराम् ॥ १३४६ ॥ सुमङ्गलसुनन्दाख्ये, कन्ये सह पुरन्दरः। जिनेन योजयामास, नीतिकीर्ती इवामले ॥ १३४७॥ एतयोः कान्तयोस्तस्य, पुत्राणामभवच्छतम् । नाहीं च सुन्दरी कन्यां, मानसाहादनक्षमाम् ॥ १३४८ ॥ जिनः कल्पद्रुमापाये, लोकानामाकुलात्मनाम् । दिदेश षक्रियाः पृष्टो, जीवनस्थितिकारिणीः ॥१३४९॥ संसारे दृश्यते देही, नासौ दुःखनिधानके । गोचरीक्रियते यो न, मृत्युना विश्वगामिना ॥ १३५० ॥ न किञ्चनात्र जीवानां, संसारक्षयकारिणाम् । रत्नत्रयविहायैकमपरं विद्यते ध्रुवम् ॥ १३५१॥ विचिन्त्येति जिनो गेहाद्विनिर्गन्तुं प्रचक्रमे । संसारासारतावेदी, कथं गेहेऽवतिष्ठते ? ॥ १३५२ ॥ आरूढः शिविकां देवो, मुक्ताहारविभूषिताम् । आनेतुं खयमायाता, सिद्धिभूमिमिवामलाम् ॥ १३५३ ॥ उत्क्षिप्तां पार्थिवैरेतामग्रहीपुर्दिवौकसः। समस्ता धर्मकार्येषु, व्याप्रियन्ते महाधियः ॥ १३५४ ॥ समेत्य शकटोधानं, देवो वटतरोरधः । पर्यङ्कासनमास्थाय, भूषणानि निराकरोत् ॥ १३५५ ॥ पञ्चभिर्मुष्टिभिः क्षिप्रं, ततोऽसौ दृढमुष्टिकः । केशानुत्पाटयामास, कृतसिद्धनमत्कृतिः ॥ १३५६ ॥ कल्याणाको महासत्त्वो, नरामरनिषेवितः । ऊर्बीभूय ततस्तस्थौ, सुवर्णाद्रिरिव स्थिरः ॥ १३५७ ॥ कृत्वा पटलिकान्तस्तान् , जिनेन्द्रस्य शिरोरुहान् । आरोप्य मस्तके शक्रश्चिक्षेप क्षीरसागरे ॥१३५८॥ Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy