SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ५० ॥ Jain Education ध्यानं वासनिरोधेन, दुर्धियः साधयन्ति ये । आकाश कुसुमैर्नूनं, शेखरं रचयन्ति ते ॥ १२८१ ॥ देहेऽवतिष्ठमानोऽपि नात्मा मूढैरवाप्यते । प्रयोगेन विना काष्ठे, चित्रभानुरिव स्फुटम् ॥ १२८२ ॥ ज्ञानसम्यक्त्व चारित्रैरात्मनो हन्यते मलः । ददानोऽनेकदुःखानि, त्रिभिर्व्याधिरिवोर्जितः || १२८३ ॥ अनादिकालसंसिद्धं, संवन्धं जीवकर्मणोः । रत्नत्रयं विना नूनं, नान्यो ध्वंसयितुं क्षमः ॥ १२८४ ॥ न दीक्षामात्रतः क्वापि जायते कलिलक्षयः । शत्रवो न पलायन्ते, राज्यावस्थितिमात्रतः ॥ १२८५ ॥ ये दीक्षणेन कुर्वन्ति, पापध्वंसं विबुद्धयः । आकाशमण्डलाग्रेण, ते च्छिन्दन्ति रिपोः शिरः ॥ १२८६ ॥ मिथ्यात्वाविरमणा (त्रतकोपा ) दियोगैः कर्म्म यदर्ज्यते । कथं तच्छक्यते हन्तुं तदा भावं विनाङ्गिभिः १ ॥ १२८७ ॥ सूरीणां यदि वाक्येन, पुंसां पापं पलायते । क्षीयन्ते वैरिणो राज्ञां वधू (बन्धु) नां वचसा तदा ॥ १२८८ ॥ नश्यन्ते दीक्षया रोगा, यया नेह शरीरिणाम् । न सा नाशयितुं शक्ता, कर्म्मबन्धं पुरातनम् ॥ १२८९ ॥ गुरूणां वचसा ज्ञात्वा, रत्नत्रितयसेवनम् । कुर्वतः क्षीयते पापमिति सत्यं वचः पुनः ॥ १२९० ॥ आत्मना विहितं पापं, कपायवशवर्त्तिना । दीक्षया क्षीयते विप्राः (क्षिप्रं ), केनेदं प्रतिपद्यते ? ॥ १२९१ ॥ सकपाये यदि ध्याने, शाश्वतं लभ्यते पदम् । बन्ध्यातनुज सौभाग्यवर्णने द्रविणं तदा ॥ १२९२ ॥ नेन्द्रियाणां जयो येषां न कपायविनिग्रहः । न तेषां वचनं तथ्यं, विटानामिव विद्यते ।। १२९३ ॥ For Private & Personal Use Only परीक्षा. ॥ ५० ॥ www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy