________________
नन्दिसूत्रम्
॥१३४॥
Jain Education
अधिकृत्य या प्रवृत्ता हा श्रोत्रेंद्रियईहा इत्यर्थः । एवं शेषा अपि साधनीयाः, 'तीसे णं' इत्यादि सुगमं, नवरं सामान्यत एकार्थिकानि, विशेषा चिंतायां पुनः भिन्नार्थानि तत्र आभोग्यतेऽनेन इति आभोगनं - अर्थावग्रहसमयसमनंतरं एव सभूतार्थविशेषाभिमुखं आलोचनं तस्य भाव आभोगनता । तथा मार्ग्यतेऽनेन इति मार्गणं सद्भूतार्थविशेषाभिमुखं एव तत् ऊर्द्ध अन्वयव्यतिरेकधम्र्मान्वेषणं तद्भावो मार्गणता, तथा - गवेष्यतेऽनेन इति गवेषणं - तत् ऊर्द्ध सत् भूतार्थविशेषाभिमुखं एव व्यतिरेकधर्म्मत्यागतोऽन्वयधर्म्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिंतनं चिंता । तत ऊर्द्ध क्षयोपशम विशेषात् स्पष्टतरं सद्भूतार्थविशेषाभिमुखं एवं व्यतिरेकधर्म्मपरित्यागतोऽन्वयधर्म्मापरित्यागतोऽन्वयधर्म्मविमर्शनं विमर्शः । ' से तं ईहा' इति निगमनम् ॥
से किं तं अवाए ? अवाए छव्विहे पन्नत्ते, तं जहा- सोइंदियअवाए, चक्खिदियअवाए, घाणिदयअवाए, जिभिदिय अवाए, फासिंदियअवाए, नोइंदियअवाए । तस्स णं इमं एगट्टिआ नाणाघोसा नाणावंजणा पंच नामविज्जा पन्नत्ता, तं जहा आउट्टणयां पच्चाउट्टणयां अवाएं बुद्धी विन्नाणे । सेत्तं अवाए । 'से किं तं' इत्यादि, श्रोत्रेंद्रियेण अवायः, श्रोत्रेंद्रियनिमित्तं अर्थावग्रहं अधिकृत्य यः प्रवृत्तोऽपायः [स] श्रोत्रेंद्रिय अपाय इत्यर्थः, एवं शेषा अपि भावनीयाः, 'तस्स णं' इत्यादि प्राग्वत्, अत्रापि सामान्यत एकार्थिकानि, विशेषचिंतायां पुनः नानार्थानि तत्र आवर्त्तते - ईहातो निवृत्त्यापायभावं प्रतिपत्यभिमुखो वर्त्तते येन बोधपरिणामेन स आवर्त्तनः तद्भाव आवर्त्तनता, अर्थविशेषेषु उत्तरोत्तरेषु विवक्षितापाय प्रत्यासन्नतरा बोधविशेषाः ते प्रत्यावर्त्तनास्तद्भावः प्रत्यावर्त्तनता । तथा अपायो निश्वयः सर्वथा ईहाभावात् विनिवृत्तस्य अवधारणाऽवधारितं अर्थ अवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः । ततस्तं एव अवधारितं अर्थ क्षयोपशम विशेषात
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१३४॥
jainelibrary.org