SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् | अवचूरिसमलंकृतम् ॥७६॥ णमिति वाक्यालंकारे, ऋजुमतिः अनन्तान्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कंधान् विशिष्टैकपरिणामपरिणतान् अर्धतृतीयद्वीपसमुद्रान्तर्वर्तिपर्याप्तसंज्ञिपश्चेन्द्रियैः मनस्त्वेन परिणामितान् पुद्गलसमूहानित्यर्थः । जानाति साक्षात्कारेणावगच्छति, पासइत्ति इह मनस्त्वपरिणतैः स्कन्धैः आलोचितं बाह्यमर्थ घटादिलक्षणं साक्षात् अध्यक्षतो मनःपर्यायज्ञानी न जानाति किन्तु मनोद्रव्याणामेव | तथारूपपरिणामान्यथानुपपत्तितो अनुमानतः, इत्थं चैतत् अङ्गीकर्तव्यं यतो मूर्तद्रव्यालंबनमेव इदं मनःपर्यायज्ञानमिष्यते, | मंतारस्तु अमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततः अनुमानत एव चिन्तितमर्थमवबुध्यन्ते, नान्यथा इति प्रत्तिपत्तव्यं, ततः | तमधिकृत्य पश्यति इत्युच्यते, तत्र मनोनिमित्तस्य अचक्षुर्दर्शनस्य संभवात् , अथवा सामान्यतः एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत् तत् द्रव्याद्यपेक्षया वैचित्र्यसंभवात् अनेकविधः उपयोगः संभवति, यथात्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानाति इत्युच्यते, सामान्यरूपं मनोद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, सामान्यतः एकरूपेऽपि क्षयोपशमलंभे अपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसंभवात् द्विविधोपयोगो भवतीति, तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया द्र सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतः दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेव, यतः सामान्यरूपमपि मनोद्रव्या| कारं प्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनं, अत एव सूत्रेऽपि दर्शनं चतुर्विधमेवोक्तं, न पंचविधमपि, मनःपर्यायदर्शनस्य परमार्थतोऽसंभवादिति, तथा तानेव मनस्त्वेन परिणामितान् स्कंधान् विपुलमतिः, अति अधिकतरानर्धतृतीयाङ्गुलप्रमा. 8 णभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान् विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान् ऋजुमत्यपेक्षयातीव स्फुटतरप्रकाशाहै नित्यर्थः, वितिमिरतरकान्-विगतं तिमिरं तिमिरसंपाद्यो भ्रमो येषु ते वितिमिराः ततो 'द्वयोः प्रकृष्टे तरप्' इति तरप्प्रत्ययस्ततःप्राकृतलक्ष ॥७६॥ Jan Education International For Private 3 Personal Use Only www.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy