SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. SOCALAMAUSICALSAX मनुजविशेषास्तेषामाचारश्चरितं यथा-लोकापवादभीरुत्वं दीनाभ्युद्धरणादः । कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः।१। सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता २। प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् । ३ । असायप-है। रित्यागः, स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् । ४ । लोकाचारानुवृत्तिश्च, सर्वत्रोचितपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि ।५।" इत्यादि, तस्य प्रशंसा प्रशंसनं पुरस्कार इत्यर्थः, यथा-गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिः, गावः क्षीरविवर्जिताः ।१। तथा-शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः ।२। इति । तथा अरयः शत्रवस्तेषां षड्वर्गोऽयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः, यतस्ते शिष्टगृहस्थानामन्तरङ्गारिकार्यं कुर्वन्ति तत्र-परपरिगृहीताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः, अविचार्य परस्यात्मनो वापायहेतुर(म)न्तर्बहिर्वा स्फुरणात्मा क्रोधो, दानार्थेषु स्वधनाप्रदानं अकारणपरधनग्रहणं च लोभः, दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः, कुलबलैश्वर्य विद्यारूपादिभिरहङ्कारकरणं परमधर्षनिवन्धनं वा मदः, निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापाद्यनर्थसंश्रयेण वा मनाप्रमोदो हर्षः, ततोऽस्यारिषथर्गस्य त्यजनमनासेवनम्, एतेषां च त्यजनीयत्वमपायहेतुत्वात् यदाह-दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः १, क्रोधाजनमेजयो ब्राह्मणेषु ॥ ५ ॥ Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy