________________
अ०प०
कानक०गीतविद्याकलां द्रष्टुं, ततः प्रद्योतभूपतिः । आकारयामास वने, वत्सराजं सुतां च ताम् ॥ ३३ ॥ I ॥ ५३॥ ऊचे वासवदत्तां च, वत्साधीशस्तदा सुधीः । आरुह्येभी वेगवती, गन्तुं कालोऽस्ति नो किल ॥३४॥
तयाप्यानायिता तत्र, कक्षाबन्धे ररास सा । तदाकर्ण्य निमित्तज्ञः, कोप्यन्धः स्माह सस्मयम् ॥ ३५॥ गत्वैषा योजनशतं, नूनं त्यक्ष्यत्यसूनिति। ततश्चतस्रस्तन्मूत्रघट्योऽस्याः पार्श्वयोः कृताः ॥ ३६॥ || वत्सराजो घोषवती-पाणिर्वासवदत्तिका । वसन्तः काञ्चनमालाऽध्यारोहन्नथ हस्तिनीम् ॥ ३७॥ यौगन्धरायणकृतसंज्ञया स व्रजन्नृपः । क्षत्राचारधुरीणः खं, ज्ञापयामासिवानिति ॥ ३८ ॥ पासवदत्ता काञ्चनमाला च वसन्तकाख्यहस्तिपकः।वेगवती घोषवती नीयन्ते वत्सराजेन ॥३९॥ (आर्या)
पृष्टेऽमुञ्चन्नलगिरि, प्रद्योतोऽपि प्रकोपतः । पञ्चविंशतियोजन्याममिलत्स द्विपः पथि ॥ ४०॥ | एका मूत्रघटी तत्र, स्फोटिता वत्सभूभुजा । मूत्रं जिघन् स्थितो हस्ती, प्रेरितोऽपि भटैः क्षणम् ॥४१॥
अन्या अपि मूत्रघटी मार्गे तावति तावति । स्फोटं स्फोटं वत्सराजो, रुरोध पथि तद्गतिम् ॥ ४२ ॥ ॥ ५३ ॥ गत्वा शतं योजनानां, प्राविशद्वत्सपत्तनम् । वत्सराजस्तदा श्रान्ता, क्षणाद्वेगवती मृता ॥ ४३॥
VERSANSARS
Jain Education intemattomat
For Private & Personal Use Only
www.jainelibrary.org