SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स दशवका० हारि-वृत्तिः १० सभिवध्य० ॥२६८॥ बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं । समत्तं ॥१०॥ तथा-'उपधौ' वस्त्रादिलक्षणे 'अमूञ्छितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छ चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, "पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहितः, 'क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः। अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुःन रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुतयं, तथा जीवितं नाभिकाङ्कते, असंयमजीवितं, तथा ऋद्धिं च' आमोषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजेति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, "अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥१७॥ तथा न 'परं' खपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, खपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्खपि गुणेषु नात्मानं समुत्कर्षति-न खगुणैर्गर्वमायाति यः स भिक्षुरिति सू ॥२६८॥ Jain Education Intern For Private Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy