________________
Jain Education Int
प्रतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ ९ ॥ अहिंसैव कथं साध्वीत्येतदेवाह - 'स वेत्ति सूत्र, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तु प्राणवल्लभत्वात् यस्मादेवं तस्मात्प्राणवधं 'घोरं रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १० ॥
पट्टा पट्टावा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नोवि अन्नं व या ॥ ११ ॥ मुसावाओ उ लोगम्मि, सव्वसाहूहिं गरिहिओ । अविस्सासो अ भूआणं, तम्हा मोसं विवज्जए ॥ १२ ॥
उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह - 'अप्पण' त्ति सूत्रं, 'आत्मार्थम्' आत्मनिमितमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि 'परार्थ वा' परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे तज्जातीयग्रहण' मिति मानाद्वा अबहुश्रुत एवाहं बहुश्रुत इत्यादि मायातो भिक्षाटन परिजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि, यदिवा 'भयात्' किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम्, अत एवाह'हिंसक' परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्यं वादयेत्, 'एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽ
For Private & Personal Use Only
ainelibrary.org