________________
Jain Education)
षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरि ल्युट् पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणां 'धीरा' बुद्धिमन्तः स्थिरा वा, 'निर्ग्रन्थाः' साधवः, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः - संयमप्रतिबद्धाः इति सूत्रार्थः ॥ ११ ॥ ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्तत्येतत्कुर्वन्ति - 'आयावयति' त्ति सूत्रम्, अस्य व्याख्या- 'आतापयन्ति - ऊर्ध्व स्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा 'हेमन्तेषु' शीतकालेषु 'अप्रावृता' इति प्रावरणरहितास्तिष्ठन्ति, तथा 'वर्षासु' वर्षाकालेषु 'संलीना' इत्येकाश्रयस्था भवन्ति 'संयताः' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः ॥ १२ ॥ 'परीसह 'त्ति सूत्रम्, अस्य व्याख्या - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः - क्षुत्पिपासादयःत एव रिपवस्तत्तुल्यधर्मत्वात्परषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था 'नाणविमलजोण्हाग' मिति यथा, तथा 'घुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह: - अज्ञानं, तथा 'जितेन्द्रियाः' शब्दादिषु रागद्वेषरहिता इत्यर्थः, त एवंभूताः 'सदुःखप्रक्षार्थी शारीरमानसाशेषदुःखप्रक्षयनिमित्तं 'प्रक्रामन्ति' प्रवर्तन्ते, किंभूताः ? - 'महर्षयः' साधव इति सूत्रार्थः ॥ १३ ॥ इदानीमेतेषां फलमाह - 'दुक्कराइति सूत्रम्, अस्य व्याख्या एवं दुष्कराणि कृत्वौद्देशि कादित्यागादीनि तथा दुःसहानि सहित्वाऽऽतापनादीनि केचन तत्र 'देवलोकेषु' सौधर्मादिषु गच्छन्तीति
For Private & Personal Use Only
www.jainelibrary.org