SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ दशवैका० शम् , कालमहानतीतादिभेदःसम्पूर्णः कालः, प्रधानमहत्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम् ३क्षुल्लिकाहारि-वृत्तिः द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानां तीर्थकरः प्रधानः चतुष्पदानां हस्ती अपदानां पनसः अचित्तानां चारकथा० वैडूर्यरत्नं मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधान इत्यत एव चैतेषां महत्त्वमिति, प्रतीत्यमहद महत्क्षुल्लक॥१० ॥ आपेक्षिकम् , तद्यथा-आमलकं प्रतीत्य महत् बिल्वं बिल्वं प्रतीत्य कपित्थमित्यादि, भावमहत्रिविधं-प्राधान्यतः निक्षेपाः कालत आश्रयतश्चेति, प्राधान्यतः क्षायिको महान् मुक्तिहेतुत्वेन तस्यैव प्रधानत्वात्, कालतः पारिणामिकः, जीवत्वाजीवत्वपरिणामस्यानाद्यपर्यवसितत्वान्न कदाचिजीवा अजीवतया परिणमन्ते अजीवाश्च जीवतयेति, आश्रयतस्त्वौदयिकः, प्रभूत[संसारिसत्त्वाश्रयत्वात् सर्वसंसारिणामेवासौ विद्यत इति, 'एतेषाम्'अनन्तरोदितानां महतां प्रतिपक्षे क्षुल्लकानि भवन्ति, 'अभिधेयवल्लिङ्गवचनानि भवन्तीति न्यायात् यथार्थ क्षुल्लक-13 लिङ्गवचनमिति, तत्र नामस्थापने क्षुण्णे, द्रव्यक्षुल्लकः परमाणुः, द्रव्यं चासौ क्षुल्लकश्चेति, क्षेत्रक्षुल्लक आकाशप्रदेशः, कालक्षुल्लकः समयः, प्रधानक्षुल्लकं त्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुपदापदभेदात्, द्विपदेषु क्षुल्लकाः प्रधानाचानुत्तरसुराः, शरीरेषु क्षुल्लकमाहारकम् , चतुष्पदेषु प्रधानः क्षुल्लकश्च सिंहः, अपदेषु जातिकुसुमानि, अचित्तेषु वज्रं प्रधानं क्षुल्लकं च, मिश्रेष्वनुत्तरसुरा एव शयनीयगता इति, प्रतीत्यक्षुल्लकं तु कपित्थं प्रतीत्य बिल्वं क्षुल्लकं बिल्वं प्रतीत्यामलकमित्यादि, भावक्षुल्लकस्तु क्षायिको ॥१०॥ साभावः स्तोकजीवाश्रयत्वादिति गाथार्थः । इत्थं क्षल्लकनिक्षेपमभिधायाधुना प्रकृतयोजनापुरःसरमाचारनि JainEducation For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy