________________
भवतः,तथाहि यशान धर्मण वा फलं धमक तत्सुखहेतुत्वातिन तस्मादसावे
व्याख्या-'सायंति सातवेदनीयं कर्म 'संमत्तं तिसम्यक्त्वं सम्यग्भावः सम्यक्त्वं-सम्यक्त्वमोहनीयं कमैव, 'पुमति पुंवेदमोहनीयं 'हासंति हस्यतेऽनेनेति हासः तद्भावो हास्य-हास्यमोहनीयम्, रम्यतेऽनयेति रतिःक्रीडाहेतुःरतिमोहनीयं कमैव, 'आउनामगोयसुहं ति अत्र शुभशब्दःप्रत्येकमभिसंबध्यते अन्ते वचनात्,ततश्च आयुः शुभं नाम शुभं गोत्रं शुभम्, तत्रायुः शुभं तीर्थकरादिसम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि-यशोनामादि शुभं तीर्थकरादीनामेव भवति, तथोचैर्गोत्रं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलम् धर्मफलं, धर्मेण वा फलं धर्मफलम् , एतद् अहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना दू जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाडितम् , अतः स एव धर्मो मङ्गलं न श्वशुरादयः, तथाहि-मायते हितमनेनेति मङ्गलम् , तच यथोक्तधर्मेणैव मङ्गयते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वशुरादय इति स्थितम् । आह–'मङ्गलबुद्ध्यैव जनःप्रणमती'त्युक्तं तत्कथम् ? इति, उच्यते, मङ्गलबुद्ध्यापि गोपालाङ्गनादिर्मोहतिमिरोपप्लुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलवनिश्चयायालम्, तथाहिन तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते, अतद्रूप एव तद्रूपाध्यारोपद्वारेण तत्प्रवृत्तेरिति । 'आइदुगंति आद्यद्वयं प्रागुक्तं तस्मिन् आद्यद्वयविषये, विपक्षप्रतिषेधः, 'मों इति निपातो वाक्यालङ्कारार्थः 'एष' इति यथा वर्णित इति गाथार्थः ॥१४३ ॥ इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः, सम्प्रति हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधप्रतिपिपादयिषयेदमाह
Jain Education
For Private
Personel Use Only
h
w.jainelibrary.org