________________
| उपदेशान्मुनेर्देवः, प्रतिबोधमवाप सः । सम्प्राप शुद्धसम्यक्त्वं भवे कस्मिन् गतः शिवम् ॥ ८२ ॥ चन्द्रोदयोऽपि राजर्षिः कृत्वा ध्यानं सुभावतः । अवाप्य केवलज्ञानं, ययौ च निर्वृतिं क्रमात् ॥८३॥ | यथौषधं भावनाभिर्भावितं गुणकृद्भवेत् । भावयुक्तस्तथा धर्मः, प्राणिनां फलदो मतः ॥ ८४ ॥ यतः - दानशीलतपः सम्पद्, भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना ? ॥ ८५ ॥ सम्प्राप्य केवलज्ञानं, भरतो भावनाबलात् । मृगोऽपि च ययौ स्वर्ग, बलदेवर्षिसंयुतः ॥ ८६ ॥ एवं चतुर्थशाखायां भावोपरि कथा मया । चन्द्रोदयनरेशस्य, प्रोक्ता वैराग्यकारिणी ॥ ८७ ॥ इत्यागमगच्छे श्रीपूज्य परमगुरुश्रीश्रीश्रीमुनिसिंह सूरितत्पट्टे श्रीशीलरत्नसरितत्पट्टांबुजदिनकर श्रीश्रीआणंदप्रभसूरितत्पद्य विभूषणनिर्जितसमस्तदृषणश्रीमुनिरत्नसृरिः तत्पट्टालङ्कारश्रीश्रीश्री आणन्दरत्नसूरीश्वरविजयवान राज्ये श्रीमतू श्रीमहोपाध्यायश्रीमुनिसागरततूशिष्यपण्डितश्रीउदयधर्मगणिविरचिते पं० श्रीधर्मदेवगणशोधिते इत्यागमोक्तं महाकाव्ये श्रीवीरदेशनायां धर्मकल्पद्रुमे चतुर्थभाबनाशाखायां चन्द्रोदयाख्याने अष्टमः पल्लवः चतुर्थवैराग्यशाखा च समाप्ता ॥ ८ ॥ इति श्रेष्ठि देवचन्द्र लालभाई — जैनपुस्तकोडारे ग्रन्थाः ४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org