SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अन्यच्च-जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः, पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः । महापुरुषसंकथाश्रवणजातरोमोद्गमाः, समस्तदुरितार्णवप्रकटसेतवः सन्नराः॥ ९३ ॥ जनस्य सर्वस्य समीहितानि कार्याणि कुर्वन्नुपकारकारी । स्वार्थे प्रमादी प्रगुणः परार्थे न कस्य कस्येह स वल्लभोऽभूत् ॥ ९४ ॥ न सद्वाक्यात्परं वश्यं न कलायाः परं धनम् । नाहिंसायाः परो धर्मो न संतोषात्परं सुखम् ॥ ९५ ॥ धर्मस्य विनयो मूलं, विनयेनाऽऽयंते धनम् । विनीता स्त्री प्रिया पत्युस्त्रिवर्गो विनयात्मकः ॥ ९६ ॥ विवेकः स्तोकपुण्यानां, चिरं चित्ते न तिष्ठति । मन्दिरेषु दरिद्रस्य, प्रदीपो दीप्यते कियत् ? ॥ ९७ ॥ तदानशीलतपोभावःचतुःशाखासमन्वितः; धर्मकल्पद्रुमो दत्ते, श्रेयोवित्तादिकं सुखम् ॥ ९८॥ भुत्रादौ दानशालायां, माहात्म्यं किञ्चिदुच्यते; दानेनेहोत्तमा भोगाः कीर्तिदानेन निर्मला ॥ ९९ ॥ हक्त्वा राज्यादिकं सौख्यं, पात्रदानालभेच्छिवम् यथा चन्द्रयशा भूपो, धर्मदत्तो वणिग् यथा ॥१०॥ हस्तिपालनृपः प्राह प्रभो ! मे दृदि कौतुकम् । कोऽयं चन्द्रयशाभूपो, धर्मदत्तोपि को नरः ? ॥ १०१ ॥ ॥६॥ X For Private & Personal Use Only Jnin Education ainelibrary.org onal
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy