________________
श्रीजीवाजीवाभि० मलयगि-1 रीयावृत्तिः
॥४६॥
कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणु
प्रतिपत्तो स्सभेयो भाणियब्यो जहा पण्णवणाए' इति, 'एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्थ | मनुष्याः इति तत एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पश्च शरीराणि, सू०४१ तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात् , अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्ख्येयभागमात्रा उत्कर्षतस्त्रीणि गव्यूतानि, संहननद्वारे पडपि संहननानि, संस्थानद्वारे षडपि संस्थानानि, कषायद्वारे क्रोधकषायिणोऽपि मानकषायिणोऽपि मायाकपायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात् , सञ्जाद्वारे आहारस-| ज्ञोपयुक्ता भयसझोपयुक्ता मैथुनसज्ञोपयुक्ता लोभसज्ञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागमनुष्याः, व्यवहारतः सर्व एव चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सज्ञादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-"निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराश्रयम् । सज्ञा लोकाश्रया सर्वाः, भवाङ्करजलं परम् ॥ १॥” लेश्याद्वारे कृष्णलेश्या नीललेश्या: कापोतलेश्यास्तेजोलेश्या: पद्मलेश्याः शुकृलेश्या अलेश्याश्च, तत्रालेश्याः परमशुक्नुध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुताश्च, तत्र नोइन्द्रियोपयुक्ताः केवलिनः, समुद्घातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवात् , समुद्घातसङ्ग्राहिका चेमा8 गाथा-"वेयणकसायमरणंतिए य वेउविए य आहारे । केवलियसमुग्घाए सत्त समुग्घा इमे भणिया ॥१॥" सब्जिद्वारे सब्जि-| नोऽपि नोसज्ञिनोअसज्ञिनोऽपि, तत्र नोसझिनोअसजिन: केवलिनः । दद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकवेदा ॥ ४६॥
१ वेदनः कषायः मारणान्तिकश्च वैक्रयिकश्चाहारकः । कैवलिकः समुद्घातः सप्त समुद्घाता इमे भणिताः ॥१॥
Jain Education
a
l
For Private Personal Use Only
Nw.jainelibrary.org