________________
Jain Education In
त्यज्ञानी त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितञ्च तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तमुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गलपरावर्त्त देशोनं, एवं श्रुताज्ञान्यपि, विभङ्गज्ञानी जघन्येनैकं समयं द्वितीयसमये मरणतः प्रतिपाते सम्यक्त्वलाभतो ज्ञानभावेन वा विभङ्गाभावात्, उत्कर्षत्तत्रयस्त्रिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि तानि च सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणात् ॥ अन्तरचिन्तायामाभिनिबोधिकज्ञानिनोऽन्तरं जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितस्य नास्त्यन्तरं मत्यज्ञानिनः श्रुताज्ञानिनश्चानाद्यपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि, विभङ्गज्ञानिनो जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालः | अल्पबहुत्वचिन्तायां सर्वस्तोका मनः पर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोऽसङ्ख्येयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गज्ञानिनोऽसङ्ख्येयगुणाः, मिध्यादृशां प्राभूत्यात्, एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि मत्यज्ञानिनः श्रुताज्ञानिनःश्च प्रत्येकमनन्तगुणाः, स्वस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत्, केवलं सूत्रपुस्तकेष्वतिसङ्क्षेप इति विवृतं ॥
अहवा अट्ठविहा सव्वजीवा पण्णत्ता, संजहा—णेरड्या तिरिक्खजोणिया तिरिक्खजोणिfीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा ।। णेरइए णं भंते! मेरश्यन्ति कालओ केवचिरं होति ?, गोयमा ? जहनेणं दस वाससहस्साइं उ० तेलीसं सागरोपमाएं, तिरिक्खजोजिए पं
For Private & Personal Use Only
Jainelibrary.org