SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४४ ॥ Jain Education स्रारः, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्वृत्त्योत्पद्यन्ते । भुजपरिसर्पाणामुत्कृष्टाऽवगाहना गव्यूतपृथक्त्वं, स्थितिरुत्कर्षत: पूर्वकोटी, उद्वर्त्तनाचिन्तायां द्वितीय पृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः ॥ खचरगर्भव्युत्क्रान्तिकपश्चेन्द्रियभेदो यथा संमूच्छिमखचराणां शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत्, नवरमवगाहनास्थित्युद्वर्त्तनासु नानात्वं तत्रोत्कर्षतोऽवगाहना धनुष्पृथक्त्वं, जघन्यतः सर्वत्राप्यङ्गुलासङ्ख्येयभागप्रमाणा, स्थितिरपि जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतोऽत्र पल्योपमासङ्ख्येयभागः, उद्वर्त्तना तृतीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः, कचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रमं सङ्ग्रहणिगाथे— “जोयणसहस्स छग्गाउयाइ तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे धणुयपुहुत्तं च पक्खी ॥ १ ॥ गर्भमि पुव्वकोडी तिन्नि य पलिओ माई परमाउं । उरभुयग पुव्वकोडी पलियअसंखेज्जभागो य ॥ २ ॥" अनयोर्व्याख्या गर्भव्युक्रान्तिकानामेव जलचराणामुत्कृष्टावगाहना योजनसहस्रं चतुष्पदानां षड् गव्यूतानि, उरः परिसर्पाणां योजनसहस्रं, भुजपरिसर्पाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तथा गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी, चतुष्पदानां त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणां पल्योपमासयेयभाग इति । उत्पादविधिस्तु नरकेष्वस्माद्गाथाद्वयादवसेयः - "अस्सण्णी खलु पढमं दोच्चं च सरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ १ ॥ छद्धिं च इत्थियाउ मच्छा मणुया य सत्तमिं पुढविं । एसो परमुववाओ बोद्धव्वो नरयपुढवीसु ॥ २ ॥” उक्ताः पञ्चेन्द्रियतिर्यभ्वः, सम्प्रति मनुष्यप्रतिपादनार्थमाह १ असंज्ञिनः खलु प्रथमां द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थीमुरगाः पुनः पञ्चमी पृथ्वीम् ॥ १ ॥ षष्टीं च स्त्रियः मत्स्या मनुष्याश्च सप्तमीं पृथ्वीं यावत् । एष परम उत्पातो बोद्धव्यो नारकपृथ्वीषु ॥ २ ॥ For Private & Personal Use Only १ प्रतिपतौ स्थलचरखेचराग भजाः [सू०३९ ४० 11 88 11 w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy