________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४५५ ॥
Jain Education Inte
सव्वत्थोवा पंचेंदिया चउरिंदिया विसेसा० तेइंदिया विसेसा० बेंदिया विसेसा० एगिंदिया अणंतगुणा अनिंदिया अनंतगुणा || (सू० २६३ )
'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च । सम्प्रत्यमीषां कार्यस्थितिमाह - 'आभिणिबोहियनाणी णं भंते!' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहूर्त्त, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रत्वात् उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिक श्रुतज्ञानयोः परस्पराविनाभूतत्वात् ' जत्थ आभिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिवोहियनाणं, दोवि एयाई अण्णोण्णमणुगयाई' इति वचनात् अवधिज्ञानी जघन्यत एकं समयं सा चैकसमयता मरणतः प्रतिपातेन मिध्यात्वगमनतो वा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, तान्याभिनिबोधिकज्ञानवद्भावनीयानि, मनः पर्यवज्ञानी जघन्यत एकं समयं द्वितीय समये मरणतः प्रतिपातात्, उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, केवलज्ञानी साद्यपर्यवसितः । अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र योऽसौ सादिसपर्यवसितोऽसौ जघन्येनान्तर्मुहूर्त्त, तत ऊर्द्ध कस्यापि सम्यक्त्वलाभतो भूयोऽपि ज्ञानित्वभावात् उत्कर्षतोऽनन्तं कालं यावदपार्द्ध देशोनं पुद्गलपरावर्त्त, ज्ञानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात् । अन्तरचिन्तायामाभिनिबोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिवोधिकज्ञानित्वभावात् उत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गल
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीव
चातुर्विध्ये
चक्षुर्दर्श
नादि
उद्देशः २
सू० २६३
।। ४५५ ।।
lainelibrary.org