________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४१॥
पतो धनुःपृथक्त्वं, स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहस्राणि । तथा चात्र क्वचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रम सङ्ग्रहणिगाथे-"जोयणसहस्सगाउयपुहत्त तत्तो य जोयणपुहत्तं । दोहंपि धणुपुहत्तं समुच्छिमवियगपक्खीणं ॥ १ ॥ संमुच्छ पुब्बकोडी चउरासीई भवे सहस्साई । तेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥२॥" व्याख्या-संमूछिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुपदानां गव्यूतपृथक्त्वम् , उर:परिसर्पाणां योजनपृथक्त्वं । 'दोण्हं तु इत्यादि, द्वयानां संमूछिमभुजगपक्षिणां-संमूछिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूच्छिमानां जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिवर्षसहस्राणि, उर:परिसर्पाणां त्रिपञ्चाशद्वर्षसहस्राणि, भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसंहारमाह-'सेत्तं समुच्छिमखहयरपश्चिंदियतिरिक्खजोणिया' । उक्ताः संमूछिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रियतिर्यग्योनिकानाह
से किं तं गन्भवतियपंचेंदियतिरिक्खजोणिया?, २ तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा
खहयरा ॥ (सू० ३७) 'सेकिंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकास्विविधाः प्रज्ञप्ताः, तद्यथा-जलचरा: स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह
से किं तं जलयरा ?, जलयरा पंचविधा पण्णत्ता, तंजहा-मच्छा कच्छभा मगरा गाहा सुंसुमारा, .
१ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय| तिर्यञ्चः सू० ३६ गर्भजक तिर्यञ्चः सू० ३७
॥४१॥
Jain Education in
For Private Personel Use Only
plainelibrary.org