SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ यिकस्याव्यवधानेन भूयो नैरयिकेपूत्पादाभावात् , 'नो नेरइए नेरइएसु उववजइ' इति वचनात् , 'तिरिक्खजोणिए णं भंते !' इत्यादि। प्रश्नसूत्रं प्राग्वत् , गौतम ! जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा मनुष्यादावुत्पादात्, उत्कर्षतोऽनन्तं कालं, वनस्पतिकायिकेष्वनन्त-IM कालमवस्थानात् , तमेवानन्तकालं निरूपयति-वनस्पतिकालः, यावान् शास्त्रान्तरे बनस्पतिकाल उक्तस्तावन्तं कालमित्यर्थः, स चैवम् | -'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए| | असंखेजइभागो' सुगमम् , मनुष्यविषयं प्रश्नसूत्रं पाठसिद्धं, निर्वचनं-गौतम! जघन्येनान्तर्मुहूर्त, तदनन्तरं मृत्वा तिर्यगादिपूत्पादभावा-16 दिति, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च महाविदेहादिषु सप्तसु मनुष्यभवेषु पूर्वकोट्यायुष्केषु अटमे च देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि । देवानां तु नैरयिकवद् यैव भवस्थितिः सैव कायस्थितिरपि, देवानामपि मृत्वा भूयोऽ-४ नन्तरं देवत्वेनोत्पादाभावात् । "नो देवे देवेसु उववजई” इति वचनात् । साम्प्रतमन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते'! इत्यादि, नैरयिकस्य भदन्त ! अन्तरं-नैरयिकत्वात्परिभ्रष्टस्य भूयो नैरयिकत्वप्राप्तेरपान्तरालं कालत: कियच्चिरं भवति?, कियन्तं कालं यावद्भवतीत्यर्थः, भगवानाह-जघन्येनान्तर्मुहूर्त, कथमिति चेत् , उच्यते, नरकादुद्धृत्य मनुष्यभवे तिर्यग्भवे वाऽन्तर्मुहूर्त स्थित्वा | भूयो नरकेषूत्पादात् , तत्र मनुष्यभवभावनेयम्-कश्चिन्नरकादुद्धृत्य गर्भजमनुष्यत्वेनोत्पद्य सर्वाभि: पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानोपेतो वैक्रियलब्धिमान राज्याद्याकाङ्की परचक्रायुपद्रवमाकर्ण्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकुर्वित्वा सङ्ग्रामयित्वा च महारौद्रध्या-2 नोपगतो गर्भस्थ एव कालं करोति कृत्वा च कालं भूयो नरकेपुत्पद्यते तत एवमन्तर्मुहूर्त, तिर्यग्भवे नरकादुद्धृतो गर्भव्युत्क्रान्तिक-13 |तन्दुलमत्स्यत्वेनोत्पद्य महारौद्रध्यानोपगतोऽन्तर्मुहूर्त जीवित्वा भूयो नरकेषु जात इति, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः | For Private Personal Use Only Jain Education Inte nelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy