________________
*R
विभूषा तावद्वाच्या यावदच्युत: कल्पः, देव्यस्तु सनत्कुमारादिषु न सन्तीति न तत्सूत्रं तत्र वाच्यं, गेवेजगदेवा णं भंते ! सरीरा केरिसगा विभूसाए पन्नत्ता?, गोयमा ! गेवेजगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पण्णत्ता' इति पाठः, एवमनुत्तरोपपातिका अपि वाच्याः ॥ सम्प्रति कामभोगप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोः कीदृशान् कामभोगान् प्रत्यनुभवन्त: प्रत्येकं वेदयमाना विहरन्ति ?, भगवानाह-गौतम! इष्टान् शब्दान इष्टानि रूपाणि इष्टान् गन्धान इष्टान् रसान् इष्टान स्पर्शान् प्रत्यनुभवन्तो विहरन्ति, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् ।। अधुना स्थितिप्रतिपादनार्थमाह-'सोहम्मगदेवाण'मित्यादि, सौधर्मकदेवानां भदन्त ! कियन्तं कालं स्थितिप्रज्ञप्ता?, भगवानाह-गौतम! जघन्यत एक पल्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेक पल्योपममुत्कर्षतो द्वे सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो द्वे सागरोपमे उत्कर्षत: सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्कपतः सातिरेकाणि सप्त सागरोपमाणि, ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सागरोपमाणि, लान्तके जघन्यतो दशसागरोपमाणि उत्कर्षतश्चतुर्दश सागरोपमाणि, महाशुक्रे जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्पतः सप्तदश, सहस्रारे जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः, प्राणते जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः, आरणे जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः, अच्युते जघन्यत एकविंशतिः सागरोपमाणि उत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनौवेयकप्रस्तटे जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयोविंशतिः, अधस्तनमध्यमवेयकप्रस्तटे जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतश्चतुर्विशतिः, अधस्तनोपरितनौवेयकप्रस्तटे जघन्यतश्चतुर्विंशति: सा
ASHARAAAR
For Private Personal Use Only
jainelibrary.org
Jain Education