SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ 6-2-56 उद्देशा१ | देवाः श्रीजीवा- एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः परिवसन्ति, तद्यथा-सौधर्मा ईशाना यावद् गैवेयका अनुत्तराः, एते च प्रतिपचौ जीवाभिळाव्यपदेशास्तास्थ्यादवगन्तव्याः, यथा पञ्चालदेशनिवासिनः पञ्चाला:, एते च कथम्भूताः ? इत्याह-'ते ण'मित्यादि, ते सौधर्मा-18वैमानिक मलयगि-दा दयोऽच्युतपर्यवसाना यथाक्रमं मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपतिभुजगखड्गवृषभाङ्कविडिमप्रकटितचिह्नमुकुटाः, मृगादिरूपाणि | रीयावृत्तिः प्रकटितानि चिह्नानि मकटे येषां ते तथेति भावः, तद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्न-1 वैमानिक 18 मुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवाः सिंहरूपप्रकटितमुकुटचिह्नाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितमुकु-1 ॥३८६॥ टचिह्नाः लान्तकदेवा दर्दररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा यमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतक- सू०१०७ ल्पदेवा भुजगमुकुटचिह्नाः, प्राणतकल्पदेवाः खड्गमुकुटचिह्नाः, खड्गः चतुष्पद विशेष आटव्यः, आरणकल्पदेवा वृषभमुकुटचिह्नाः अच्यूतकल्पदेवा विडिममुकुटचिह्नाः तथा प्रशिथिलवरमुकुटकिरीटधारिणः, 'वरकुंडलुज्जोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुद-17 द्योतितं-भास्वरीकृतमाननं येषां ते वरकुण्डलोद्योतिताननाः, 'मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकटदीप्तशिरसः। रक्ताभा-रक्तवर्णाः, एतदेव सविशेषमाह-'पउमपम्हगोरा' पद्मपक्ष्मवत्-पद्मपत्रवद् गौरा: पद्मपक्ष्मगौरा: श्रेयांस:-परमप्रशस्याः । शुभवर्णगन्धस्पर्शा: 'उत्तमविकुर्विणः' उत्तमं विकुर्वन्तीत्येवंशीला उत्तमविकुर्विणः, 'विविहवत्थमल्लधारी विविधानि शुभात शुभतराणि वस्त्राणि माल्यानि च धारयन्तीत्येवंशीला विविधवस्त्रमाल्यधारिण: महर्द्धिका महाद्युतयो महायशसो महाबला महानुभागा महासौख्याः तथा 'हारविराइयवच्छा कडगतुडियथंभियभुया संगयकुंडलमहगंडयलकण्णपीढधारी विचित्तहत्याभरणा विचित्तमाला ॥३४६॥ ४ मउली कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं SACSCARSA NCR Jain Education For Private & Personel Use Only wjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy