SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ SALISADSOONDSOMX -SAMANA-CA देवसाहस्सीओ परिवहंति, सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिल्लं बाहं परिवहंति एवं चउद्दिसिपि ॥ (सू० १९८) 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्यालङ्कारे भदन्त! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम ! दापोडश देवसहस्राणि परिवहन्ति, तद्यथा-पूर्वेण-पूर्वतः, एवं दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूर्वेण सिंहरूपधारिणां देवानां चत्वारि है सहस्राणि परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना-चन्द्रादिविमानानि तथाजगत्स्वाभाव्यान्निरालम्बनान्येव वहन्त्यवतिष्ठन्ते, केवलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमामानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद्गजरूपाणि केचिद्वृषभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, यथा हि कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां || हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदित: करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा | देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमासानं बहु म-18 न्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति ॥ एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सङ्ग्रहणिगाथे-"सोलस देवसहस्सा वहति चंदेसु चेत्र सूरेसु । अद्वैव सहस्साई एकेकंमि गहविमाणे ॥ १॥ चत्तारि सहस्साई Jain Education a l For Private & Personal Use Only T w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy