________________
मुखे हस्तं दत्त्वा महता शब्देन पूत्करणं, यच्च कलकलो-व्याकुलशब्दसमूहस्तद्रवेण महता समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः,! किंविशिष्टम् ? इत्याह-'अच्छम्' अतीवनिर्मलजाम्बूनदमयत्वात् रत्नबहुलखाच 'पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्त्तमण्डलं चार। | यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुन: प्रश्नयति–'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! ज्योतिष्कदे-12
वानां यदा इन्द्रश्च्यवते तदा ते देवा 'इदानीम्' इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह-गौतम! यावच्चत्वारः पञ्च वा सामादनिका देवाः समुदितीभूय 'तत्स्थानम्' इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थानं परिपालयन्ति, संजातौ शुल्कस्थानादिकपञ्चकु
लवत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्ति ? इति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ॥ 'इंदवाणे णमित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम ! जघन्येनैकं समयं यावदुत्कर्षतः षण्मासान् ॥ 'बहिया ण'मित्यादि, बहिर्भदन्त ! मानुपोत्तरस्य पर्वतस्य ये चन्द्रसूर्य ग्रहगणनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूोपपन्नाः ? इत्यादि प्राग्वत् , भगवानाह--गौतम ! नोद्धोपपन्नका नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिकाः अत एव नो गतिरतयो नापि गतिसमापन्नकाः 'पक्किदृगसंठाणसंठिएहिंति पकेष्टकसंस्थानसंस्थितैर्योजनशतसाहसिकैरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तेषामपि मनुष्यक्षेत्राइहिर्व्यवस्थितानां चन्द्रसूर्याणासातपक्षेत्रा
ण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थम्भूतैरातपक्षेत्रैः साहम्रिका४/ भि:-अनेकसहस्रसङ्ग्याभिर्वाह्याभिः पर्पद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयाहये'त्यादि यावत्समुद्ररवभूतमिव कुर्वन्त इति प्रादावन , कथम्भूताः? इत्याह-शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजस: किन्तु सुखोत्पादहेतुपरमलेश्याका
ANSACROCOCCORDC
+-%-54--XRECORMA%AC
Jain Educati
o
n
For Private & Personal Use Only
w w.jainelibrary.org