SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ त्रादिसङ्ख्यापरिमाणं भावनीयम् ।। सम्प्रति मनुष्यक्षेत्रादहिवत्तिनां चन्द्रसूर्याणां परस्परमन्तरपरिमाणप्रतिपादनार्थमाह-मनुष्यन-1 गस्य' मानुषोत्तरपर्वतस्य बहिश्चन्द्रात्सूर्यस्य सूर्याचन्द्रस्यान्तरं भवति ‘अन्यूनानि परिपूर्णानि योजनानां पञ्चाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् ।। इदानीं चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं-लक्षं, तथाहि-चन्द्रान्तरिताः सूर्याः सूर्यान्तरि| ताश्चन्द्रा बहिर्व्यवस्थिता:, चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ५००००, ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं न वलयाकारश्रेण्येति ॥ सम्प्रति बहिश्चन्द्रसूर्याणां | पतयाऽवस्थानमाह-नृलोकादहिः पतथाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकरा: 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थः, कथम्भूतास्ते चन्द्रसूर्याः ? इत्याह-'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितत्वात् , चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् , लेश्याविशेषप्रदर्शनार्थमाह-'सुहलेसा मंदलेसा य' सुखलेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्त शीतरश्मय इत्यर्थः, मन्दलेश्या: सूर्या न तु मनुष्यलोके निदाघसमय इव एकान्तोष्णरश्मय इत्यर्थः, आह च तत्त्वार्थटीकाकारो हरिभद्रसूरिः-नात्यन्तं शीताश्चन्द्रमस: नात्यन्तोष्णाः सूर्याः किन्तु साधारणा द्वयोरपी"ति, इहेदमुक्तं भवति-यत्र द्वीपे समुद्रे वा नक्षत्रादिपरिमाणं ज्ञातुमिष्यते तत्रैकश| शिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः शशिभिर्गुणयितव्यमिति । तत्रैकशशिपरिवारभूतानां ग्रहादीनां परिमाणमाह- अट्ठासीई.' त्यादि गाथाद्वयमपि पाठसिद्धम् ।। बहिः 'मनुष्यनगस्य' मनुष्यपर्वतस्य चन्द्रसूर्याणां योगा अवस्थिता न मनुष्यलोक इवान्यान्यन Jain Education For Private & Personel Use Only Www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy