SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पृथुत्वमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिभीगे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं ४८२२४६९ ।। ' पुक्खरवरदीवस्स णं भंते! दीवरस पएसा पुक्खरवरसमुद्द पुट्ठा ?' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह – 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः २१ इति, भगवानाह - गौतम! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, | पद्मानि अतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मखण्डा:- पद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निश्वं कुसुमिया' इत्यादि विशेष जातं प्राग्वत् । तथा पूर्वार्द्ध उत्तरकुरुषु यः पद्मवृक्षः पश्चिमा उत्तरकुरुपु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपु ण्डरीकौ द्वौ देवौ महर्द्धिको यावत्पल्योपनस्थितिको यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती परिवसतः तथा चोक्तम् — “पैउमे य महापउमे रुक्खा उत्तरकुरू जंबुसमा । एएसु वसंति सुरा पउने तह पुंडरीए य ॥ १ ॥ पद्मं च पुष्करमिति पुष्करवरोपलक्षितो द्वीप: पुकरवरो द्वीप : ' से एएणट्टेण' मित्याद्युपसंहारवाक्यम् ॥ सम्प्रति चन्द्रादित्यादिपरिमाणमाह - ' पुक्खरवरे' त्यादि पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं उक्तं चैवंरूपं परिमाणमन्यत्रापि - "चोयाल चंदसयं चोयालं चैव सूरियाण सयं । पुक्खरवरंमि दीवे चरंति एए पगासिंता ॥ १ ॥ चत्तारि सहस्साई १ पद्म महापद्म वृक्षी उत्तरकुरुषु जम्बूसमौ । एतयोर्वसतः सुरौ पद्मस्तथा पुण्डरीकश्च ॥ १ ॥ २ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशे चैव सूर्याणां शतं । पुष्करवरे द्वीपे चरन्ति एते प्रकाशयन्तः ॥ १ ॥ चत्वारि सहस्राणि For Private & Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy