SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ANSAROCCES जनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एक गव्यूत पञ्चनवतिधनु:पर्यन्ते एकं धनुरित्यादि लब्धम् ॥ सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृड्या प्रज्ञाः ?, एतदुक्तं भवति-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धिः?, भगवानाह-गौतम! 'लवणस्स णं समुदस्से'त्यादि, इह निश्चयतो लवणसमुद्रस्य जम्बूद्वीपवेदिकातो लवणसमुद्रवेदिकातच समतले भूभागे प्रथमतो जलवृद्धिरङ्गुलसहयेयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धवा जलवृद्धिः पक्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दश-12 योजनसहस्रविस्तारे षोडश योजनसहस्राणि, इह तु पोडशयोजनसहस्रप्रमाणाया: शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यतेमालवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच पञ्चनवति प्रदेशान गत्वा पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रज्ञता, पञ्चनवति वालाग्राणि गत्वा पोडश वालाग्राणि, एवं यावन् पञ्चनवति योजनसहस्राणि गत्वा षोडश योजनसहस्राणि, अत्रेदयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे पोडश योजनसहस्राणि जलोत्सेधस्तत: पञ्चनवतियोजनातिकमे क उत्सेधः ?, राशित्रयस्थापना-९५०००।१६०००।९५। अत्रादिमध्ययो राइयोः शून्यत्रिकस्यापवर्तना ९५।१६।९५, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येन पश्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एपामादिराशिना पञ्चनवतिलक्षणेन भागे हते लब्धानि पोडश योजनानि, उक्तश्च-पंचाणउइसहस्से गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलससाहस्सिओ Jain Education in For Private Personal Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy