________________
ड्रमः-अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवात उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रो यो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः सम्मिश्रो यो वातः, गुजावातो यो गुञ्जन्-शब्दं कुर्वन् वाति, झमझावातः सवृष्टिः, अशुभनिष्ठुर इत्यन्ये, संवर्तकवातस्तृणादिसंवर्तनस्वभावः, घनवातो घनपरिणामो वातो रत्नप्रभापृथिव्याद्यधोवी, तनुवातो-विरलपरिणामो धनवातस्याधःस्थायी, शुद्धवातो मन्दस्तिमितो, बस्तिहत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत् , तथा शरीरादिद्वारकलापचिन्तायां शरीरद्वारे चत्वारि शरीराणि औदारिकवैक्रियतैजसकार्मणानि, चत्वारः समुद्घाता:-वैक्रियवेदनाकषायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त वक्तव्यमुत्कर्षतस्वीणि वर्षसहस्राणि, आहारो निर्व्याघातेन षड्दिशि, व्याघात प्रतीत्य स्यात्रिदिशि स्याच्चतुर्दिशि स्यात्पञ्चदिशि, लोकनिष्कुटादावपि बादरवातकायस्य सम्भवात् , शेषं सूक्ष्मवातकायवत् , उपसंहारमाह-'सेत्तं वाउक्काइया' इति ।। उक्ता वातकायिकाः, सम्प्रत्यौदारिकत्रसानाह
से किं तं ओराला तसा पाणा, २ चउव्विहा पण्णत्ता, तंजहा-बेइंदिया तेइंदिया चरिंदिया पंचेंदिया॥ (सू०२७) अथ के ते औदारिकत्रसाः ?, सूरिराह-औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः, चत्वारि स्पर्शनरसनघ्राणचक्षुरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः ॥ तत्र द्वीन्द्रियप्रतिपादनार्थमाह
ACCOST--5
Jain Education
THEpna
For Private & Personel Use Only
A
Mw.jainelibrary.org