________________
.
..
..
.
श्रीजीवा- पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य प्रतिपत्ती जीवाभि018|विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या ॥ सम्प्रति वैजयन्तद्वारप्रतिपादनार्थ- लवणाधिक मलयगि- माह-'कहि णं भंते!' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्याउहेशः २ रीयावृत्तिः दक्षिणपर्यन्ते धातकीखण्डद्वीपदाक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवद- सू०१५४
वसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदितव्या ॥ जयन्तद्वारप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त । ॥३०२॥
लवणसमुद्रस्य जयन्तं द्वारं प्रज्ञानं ?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वत: शीताया महा-] नद्या उपरि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चि-18 मभागे वक्तव्या ॥ अपराजितद्वारप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! लवणस्य समुद्रस्यापराजितं नाम द्वारं | प्रज्ञप्तं ?, भगवानाह-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वारं, प्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारवनिरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातव्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह–'लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य द्वारस्य २ 'एस ण'मिति एतद् अन्तरं कियत्या 'अबाधया' अन्तरालवाव्याघातरूपया प्रज्ञप्तं?, भगवानाह-गौतम! त्रीणि योजनशतसहस्राणि पञ्चनवतिः सह
स्राणि अशीते द्वे योजनशते क्रोशश्चैको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि, | ६ एकैकस्मिंश्च द्वारे एकैका द्वारशाखा क्रोशबाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे पृथुत्वं सामस्त्येन चिन्यमानं सार्द्धयो-18
॥३०२॥
Jain Education timhlal
For Private & Personel Use Only
Www.jainelibrary.org