________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
।। २९२ ॥
Jain Education Inte
गाच्चन्द्रदेवस्वामिकत्वाच्च चन्द्रहृद इति चन्द्राराजधानीवक्तव्यता काञ्चनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ॥ साम्प्रतमैरावतदवक्तव्यतामाह - 'कहि णं भंते' इत्यादि प्रनसूत्रं पाठसिद्धं निर्वचनमाह - गौतम ! चन्द्रहृदस्य दाक्षिणात्याच्चरमान्तादवग दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागार योजनस्यावाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावतदो नाम हदः प्रज्ञप्तः, अस्यापि नीलवन्नाम्नो इदस्येवायामविष्कम्भादिवक्तव्यता परिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावतहृदप्रभाणि, ऐरावतो नाम हस्ती तद्वर्णानि च ऐरावतश्च नामा तत्र देवः परिवसति तेन ऐरावतहद इति, ऐरावताराजधानी विजयराजधानीवत् काश्चनकपर्वतवक्तव्यता पर्यवसाना तथैव || अधुना माल्यवन्नाम वक्तव्यतामाह - 'कहि णं भंते' इत्यादि सुगमं, भगवानाह - गौतम ! ऐरावतहृदस्य दाक्षिणात्याच्चरमान्तादर्वा दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु माल्यवन्नामा हृदः प्रज्ञप्तः, स च नीलवद्दवदायामविष्कम्भादिना तावद्वक्तव्यो यावत्पद्मवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुत्पलादीनि 'माल्यवद्दप्रभाणि' माल्यवदाकाराणि, माल्यवन्नामा वक्षस्कारपर्वतस्तद्वर्णानि तद्वर्णाभानि माल्यवन्नामा च तत्र देवः परिवसति तेन माल्यवह्रद इति, माल्यवतीराजधानी विजयाराजधानीवद् वक्तव्या काञ्चनकपर्वतवक्तव्यताऽवसाना प्राग्वत् ॥ सम्प्रति जम्बूवृश्वक्तव्यतामाह—
कहि णं भंते! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नामं पेढे पण्णत्ते ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खा
For Private & Personal Use Only
३ प्रतिपत्तौ काञ्चनपर्वताधि०
उद्देशः २
सू० १५०
॥ २९२ ॥
ainelibrary.org