SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २५९ ॥ Jain Education Inte ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्षु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्षु भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य | देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि बा ह्याया: पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तान् सर्वासु दिक्षु सामस्त्येन पोडश आत्मरक्षकदेव सहस्राणि षोडशसु भद्रासनसहस्रेषु निषीदन्ति तद्यथा चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि ।। ते चात्मरक्षाः सन्नद्धबद्धवर्मितकवचाः, कवचं - तनुत्राणं वर्म - लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति व र्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनान् वर्मितं कवचं यैस्ते सन्नद्धवद्भवर्मितकवचाः, 'उष्पीलियस रासणपट्टिया' इति उत्पीडिता - गाडीकृता शरा अस्यन्ते - क्षिप्यन्ते ऽस्मिन्निति शरासनः - इधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः 'पिणद्धगेवेज्जविमलवर चिंधपट्टा' इति पिनद्धं मैवेयं-प्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धवरमैत्रेयविमलवरचिह्नपट्टा : 'गहियाउहपहरणा' इति आयुध्यतेऽनेनेत्यायुधं - खेटकादि प्रहरणं - असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध - १ प्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावात् वज्रमयकोटीनि धनूंषि अभिगृ ' परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगान् केचित् 'नीलपाणय' इति नीलः काण्डकलाप ॥ २५९ ॥ For Private & Personal Use Only ३ प्रतिपत्तौ विजयदे वपरिवारस्थित्यादिः उद्देशः २ सू० १४३ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy