________________
श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्क:
॥अर्हम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं ।
श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्)
प्रणमत पदनखतेज:प्रतिहतनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥१॥
प्रणिपत्य गुरून जीवाजीवाभिगमस्य विवृत्तिमहमनघाम् । विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् ॥२॥ इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषयशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञाने यत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग
जी००१
Jain Education in
For Private Personal Use Only
ainelibrary.org