________________
प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पद्मवरा पद्मप्रधाना वेदिका पद्मवरवे
दिका पद्मवरवेदिकेति ॥ 'पउमवरवेइया णं भंते ! किं सासया?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत् किं शाश्वती उताशाश्वती?,31 Fआवन्ततया सूत्रे निर्देश: प्राकृतत्वात् , किं नित्या उतानित्येति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती-कथञ्चिन्नित्या
कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपात: कथञ्चिदित्येतदर्थवाची ॥ 'से केणडेणं भंते! इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! 'द्रव्यार्थतया' द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् , द्रव्यं चान्वयि परिणामित्वाद्, अन्यथा द्रव्यत्वायोगाद्, अन्वयित्वाच सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायैः' तदन्यसमुत्पद्यमानव
विशेषरूपैरेवं गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गल विचटनोचटनैश्वाशाश्वती, किमुक्तं भवति?-पर्याया|स्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशित्वात् , 'से एएणतुण'समित्यादि उपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो बिनाशो,
'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा : सर्पस्योत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति ॥ एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपा? इति, तत: संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेइया ण'मित्यादि, पद्मवरवेदिका णमिति ||
पूर्ववद् 'भदन्त!' परमकल्याणयोगिन् ! 'कियच्चिर' कियन्तं कालं यावद्भवति?, एवरूपा कियन्तं कालमवतिष्ठते? इति, भगवानाह18/गौतम! न कदाचिन्नासीत्, सर्वदेवासीदिति भावः, अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति
Jain Education
For Private
Personal Use Only
ATANJainelibrary.org