SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ रूपा इत्यर्थः, 'महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा' इति प्राग्वत् , 'हारविराइयवच्छा' इति 8 हारैर्विराजितं वक्षो येषां ते हारविराजितवक्षस:, 'कडगतुडियथंभियभुया' इति कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकास्तैः स्तम्भिताविव स्तम्भितौ भुजौ येषां ते कटकत्रुटितस्तम्भितभुजाः, तथाऽङ्गदानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले-कर्णाभरणविशेषरूपे, तथा मृष्टौ-मृष्टीकृतौ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि- नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमस्रम् मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनान्निष्टान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणक-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यश्चानुलेपनं तद्धरन्तीति कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमाना बोन्दिःशरीरं येषां ते भास्वरबोन्दयः, तथा प्रलम्बत इति प्रलम्बा या वनमाला तां धरन्तीति प्रलम्बवनमालाधराः, दिव्येन 'वर्णेन' कृष्णा दिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन स्पर्शेन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु सा-18 लक्षात्संहननेन, देवानां संहननासम्भवात् , संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव-"देवा असं घयणी तेसि नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेषामन्यसंस्थानासम्भवात् , 'दिव्यया ४ ऋद्ध्या' परिवारादिकया 'दिव्यया द्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'धु अभिगमने' इतिवचनात् 'दिव्यया प्रभया' भवनावासगहै तया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्नादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया Jan Education in For Private Personal use only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy