SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विनेयस्य धर्मः कथनीयः, इत्थमेव सम्यक्प्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पञ्च भवन्ति, तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि ||5|| अनन्तगुणहीनत्वात् , यद्वा उदारं सातिरेकयोजनसहनमानत्वात् शेषशरीरापेक्षया बृहत्प्रधानं, बृहत्ता चास्य वैक्रियं प्रति भवधार-| णीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रिय योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं, विनयादिपाठादिकण १, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि-तदेकं भूखाउनेकं भवति अनेकं भूत्वा एकं तथाऽणु भूत्वा महद्भवति महच्च भूत्वाऽणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अदृश्यं भूत्वा दृश्यमिति, तच्च द्विविधम्-औपपातिकं लब्धिप्रत्ययं च, तत्रौपपातिकमुपपातजन्मनिमित्तं, तच्च देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चतुर्दशपूर्व विदां तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारकं, 'कृद्वहुलक'| मिति वचनात्कर्मणि बुन, यथा पादहारक इत्यत्र, उक्तं च-"कंजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिज्जइ | भणंति आहारगं तं तु ॥ १॥" कार्य चेदम्-'पाणिदयरिद्धिदसण सुहुमपयत्थावगाहहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलंमि ॥ १॥" एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तच्चाभवनं जघन्यत एक समयमुत्कर्षत: षण्मासान् यावत् , उक्तं च-"आहारगाइ लोगे छम्मासा जा न होतिवि कयाइं । उकोसेणं नियमा एक समय जहन्नेणं ॥१॥" आहारकं च शरीरं VII १ कार्य समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदत्राहियते भणन्याहारक तत्तु ॥१॥ २ प्राणिदयाऋद्धिदर्शनसूक्ष्मपदार्थावगाहहेतवे वा । संशय युच्छेदाथै गमनं जिनपादमूले ॥१॥ ३ आहारकादयो नियमालोके षण्मासान यावत्र भवन्यपि कदाचित् । उत्कृष्टतो नियमात् एक समय जघन्येन ॥१॥ in Educat i onal For Private & Personel Use Only W www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy