________________
श्रीजीवाइत्यादि प्राग्वत् यावत्तत् मिध्या ते एवमाख्यातवन्तः, अहं पुनर्गौतम! एवमाचक्षे एवं भाषे एवं प्रज्ञापयामि एवं प्ररूपयामि, इह खजीवाभि० | स्वेको जीव एकेन समयेनैकां क्रियां प्रकरोति, तद्यथा - सम्यक्त्वक्रियां वा मिध्यात्वक्रियां वा, अत एव यस्मिन् समये सम्यक्त्वक्रियां मलयगिप्रकरोति न तस्मिन् समये मिथ्यात्वक्रियां प्रकरोति यस्मिन् समये मिध्यात्वक्रियां प्रकरोति न तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, रीयावृत्तिः ४ परस्परवैवित्क्त्यनियमप्रदर्शनार्थमाह- सम्यक्त्वक्रियाप्रकरणेन न मिथ्यालक्रियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वक्रियां
॥ १४३ ॥
Jain Education Inter
प्रकरोति, सम्यक्त्वक्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा मोक्षाभावप्रसक्तेः कदाचिदपि मिध्यात्वानिवर्त्तनात् । अस्यां तृतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ॥
३ प्रतिपत्तौ
तिर्यगु
देशः २
सू० १०५१०६
व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम् -
से किं तं मणुस्सा ?, मणुस्सा दुबिहा पण्णत्ता, तंजहा - संमुच्छिममणुस्सा य भवतियमसाय ॥ (० १०५) । से किं तं संमुच्छिममणुस्सा १, २ एगागारा पण्णत्ता | कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा ! अंतोमणुस्सग्वेत्ते जहा पण्णवणाए जाव सेत्तं संभुच्छिममणुस्सा | (सृ० १०६ )
'से किं त'मित्यादि, अथ के ते मनुष्याः ?, सूरिराह - मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथा - संमूच्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुव्याश्च चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचकौ ॥ 'से किं तमित्यादि, अथ के ते संमूच्छिममनुष्याः ?, सूरिराह-संमू- ॥ १४३ ॥ छिममनुष्याः 'एकाकाराः ' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषां सम्भवः ? इति जिज्ञासिषुर्गोतमः पृच्छति - 'कहि णं भंते!'
For Private & Personal Use Only
jainelibrary.org