________________
Jain Education
भंते! हरियकाया हरियकायसया पण्णत्ता ?, गोयमा ! तओ हरियकाया तओ हरियकायस्या पण्णत्ता, फलसहस्सं च बिंदवद्वाणं फलसहस्सं च णालवद्वाणं, ते सव्वे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिज्जमाणा २ एवं समणुपेहिजमाणा २ एवं समणुचिं तिजमाणा २ एएस चेव दोसु काएस समोयरंति, तंजहा -तसकाए चैव थावरकाए चेव, एवमेव सपुचावरेण आजीवियदितेणं चउरासीति जातिकुल कोडी जोणी पमुहसतसहस्सा भवतीति म क्वाया || (सृ० ९८ )
'कइ ण'मित्यादि, कति भदन्त ! गन्धाङ्गानि, कचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाङ्गानीति द्रष्टव्यं प्रज्ञप्तानि ?, तथा कति गन्धाङ्गशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा-मूलं त्वक् काष्टं निर्यासः पत्रं पुष्पं फलं च तत्र मूलं मुस्तावालुकोशीरादि त्वक् सुवर्णछीत्वचाप्रभृति, काष्ठं चन्दनागुरुप्रभृति, निर्यासः कर्पूरादिः, पत्रं जातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि, फलं जातिफल - कर्कोल कैलालवङ्गप्रभृति, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत्, ग अन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवती 'ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जाताः पञ्चसप्ततिशतं स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपास्ततः पञ्चसप्ततं शतं स्पर्शचतु
For Private & Personal Use Only
365097
jainelibrary.org