SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ । | जीवाजी वाभि. प्रतिपत्तिः श्रीजीवा-1 तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेषास्तु जीवाभि प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति कथमवसीयते ?, उच्यते, इह भगवताऽऽर्यश्यामेन प्र- मलयगि- ज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपजत्तीए अपजत्तए णं भंते ! किं आहारए अणाहारए?, गोयमा रीयावृत्तिः 8 नो आहारए अणाहारए” इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्य ॥१०॥ प्रथमसमय एवाहारकत्वात् , तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्त्या अपर्याप्तः स्यात्तत एवं व्याकरणसूत्रं पठेत्-"सिय आहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणाहारए” इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, 'अभ्रादिभ्य' इति मत्वर्थीयो-| प्रत्ययः, पर्याप्ता एव पर्याप्तकाः, ये पुनः स्खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ता एवापर्याप्तकाः, ते द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव नियन्ते ते लब्ध्याऽपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्त्तयन्ति अथचावश्यं | निर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः ॥ सम्प्रति विनेयजनानुग्रहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं सङ्ग्रहणिगाथाद्वयमाह-सरीरोगाहणसंघयण संठाणकसाय तह य हुंति सन्नाओ । लेसिदियसमुग्घाए सन्नी वेए य पज्जत्ती ॥१॥ दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे । उववायठिई समुग्घाय चवणगइरागई चेव ॥ २ ॥ अस्य व्याख्या-प्रथमत: सूक्ष्मपृथिवीकायिकानां शरीराणि वक्त व्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तरं संस्थानं, ततः कषायाः, तत: कति भवन्ति सज्ञा:? इति वक्तव्यं, ततो लेश्याः, सातदनन्तरमिन्द्रियाणि, तत: समुद्घाताः, ततः किं सज्ज्ञिनोऽसम्झिनो वा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, तत: पर्याप्तयो| Jain Education For Private & Personal use only Kirajainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy