SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Jain Education Int दृष्टा मानेन केन वा ? || १ ||" इति कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्ग्रहणिटीका निरूपणीया । 'से तेणट्टेण' मित्याद्युपसंहारमाह, सेशब्दोऽथशब्दार्थः स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोदितेन कारणेन गौतम! एवमुच्यते - स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चेत्तावन्तं कालं शश्वद्भवति तदा तदपि शाश्वतमुच्यते यथा तत्रान्तरेषु 'आकप्पट्टाई पुढवी सासया' इत्यादि, ततः संशय: - किमेषा रत्नप्रभा पृथवी सकलकालावस्थायितया | शाश्वती उतान्यथा यथा तत्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदार्थं पृच्छति - 'इमा णं भंते' इत्यादि, इयं भदन्त ! रत्नप्रभा प्र थिवी कालतः 'कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भाव:, अत्रापि स एव हेतु:, सदा भावादिति, तथा न कदाचिन्न भविष्यति, भविष्यच्चिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति 'भुविं चे 'त्यादि, अभूत् भवति भविष्यति च एवं त्रिकालभावित्वेन 'धुवा' ध्रुवत्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवन्, नियतत्वादेव च शाश्वती, शश्वद्भावः प्रलयाभावात् शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीक हृद् इवान्यतरपुद्गलविचटनेऽप्यन्यतरपुद्गलोपचयभावात्, अक्षया अक्षयत्वादेव च अव्यया, मानुषोत्तराद्वहिः समुद्रवत्, अव्ययत्वादेव ' अवस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत् एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत्, यदि वा ध्रुवादयः शब्दा इन्द्रशक्रादिवत्पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या यावदधः सप्तमी || सम्प्रति प्रतिपृथिवीपु (वि) विभागतोऽन्तरं विचिन्तयिपुरिदमाह - For Private & Personal Use Only Jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy