SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि मलयगि रीयावृत्तिः जीवाजीवाभि प्रतिपत्तिः ॥८॥ एवमाहिजंति, तं०-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउब्विहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार समावण्णगा जीवा पण्णत्ता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयों' द्विप्रत्यवतारमादौ कृत्वा | दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् ‘एवं' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, इह प्रतिपत्त्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्दाद्वैतवादिभिः'शब्दमात्रं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवा: प्रज्ञप्ताः, एके आचार्या एवमाख्यातवन्त:-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्तरीया इव केचिदन्ये आचार्याः, किन्तु य एव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्त: यथा द्विविधाः संसारसमापन्ना जीवा इति त एव त्रिप्रत्यवतारविवक्षायां वर्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यत्वात् , विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम् , इह य एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेषामनेकखभावतायां तत्तद्धर्मभेदेन तथा ॥८॥ Jain Educati o nal For Private Personal Use Only T ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy