________________
तोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेयं कालं यावत् , स चासङ्ख्येयः कालोऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असङ्ख्येयलोकाकाशप्रदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इत्यर्थः, वनस्पतिभवात्प्रच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानसम्भवात् , तदनन्तरं संसारिणो नियमेन भूयो वनस्पतिकायिकत्वेनोत्पाभावात् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थलचरखचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुध्यनपुंसकस्य च जघन्यतोऽन्तरमन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, स चानन्त: कालो वनस्पतिकालो यथोक्तस्वरूपः प्रतिपत्तव्यः, कर्मभूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, धर्मचरणं प्रतीत्य जघन्यत एक समयं यावत् , लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात् , उत्कर्पतोऽनन्तं कालं, तमेवानन्तं कालं निर्धारयति-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा अवई पुग्गलपरिय; देसूण"मिति, एवं भरतैरावतपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्माचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीय जघन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावान् , उत्कर्षतो बनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, तच्चैवं-कोऽपि कर्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमौ संहृतः, स च मागधपुरुषदृष्टान्तबलादकर्मभूमक इति व्यपदिश्यते, ततः कियत्कालानन्तरं तथाविधबुद्धिपरावर्त्तनभावतो भूयोऽपि कर्मभूमौ संहृतः, तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः। एवं विशेषचिन्तायां हैमवतहैरण्यवतहरिवर्षरम्यकदेवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्य | च जन्म संहरणं च प्रतीत्य जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम् ॥ तदेवमुक्तमन्तरमधुनाऽल्पबहुत्वमाह
जी० च०१४
For Private
Personal Use Only
Gr
ainelibrary.org