________________
'परिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्तं कालं यावस्थितिः प्रज्ञप्ता ?, भगवानाह-जघन्यतोऽन्तर्मुहत, तत ऊर्ध्व मरणभावात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् ।। तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्परम्यकस्य देवकुरूत्तरकुरुकस्यान्तरद्वीपकस्य यैवासीये आलीये स्थाने स्त्रिया: स्थिति: सैव पुरुषस्यापि वक्तव्या, तद्यथा-सामानिकतिर्यग्योनिक
पुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरु-1 Pषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरि-1
सर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षत: पल्योपमासयेयभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमझीकृत्य वेदितव्यं, अन्यथा | चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेर्बहुलभङ्गतया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्राय: सर्वचरणमिति प्रतिपत्त्यथै, तथा चोक्तम्- सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागर संखंतरा होति ॥ १॥"] इति, अत्र यदाद्यं व्याख्यानं तत्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च स्त्रीवेदचिन्तायां व्याख्यातं तत्रापीति, उत्कर्पतो देशोना पूर्वकोटी |
१ सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेनैव श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातानि अन्तरं भवन्ति ॥१॥
CAMP-RSS RSS
JainEducation
For Private Personel Use Only
jainelibrary.org