SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तथा चाह दुःषमान्धकारनिमग्नजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम्-“सिझंति जत्तिया किर इह संववहारजीवरासिमझाओ । इंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १॥” इति कृतं प्रसङ्गेन । सम्प्रति त्रसकायस्य का-1 यस्थितिमानमाह-'तसे णं भंते'इत्यादि, तसे'ण'मिति पूर्ववत् 'त्रस इति' बस इत्यनेन पर्यायेण कालत: ‘कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालम् , एनमेवासङ्ख्येयं कालक्षेत्राभ्यां निरूपयति-असंखिजाओ'इत्यादि, असङ्ख्येया उत्सर्पिण्यवसर्पिण्य: कालत:, क्षेत्रतोऽसङ्ख्येया लोका असङ्ख्येयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारे यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिक वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"तसकाए णं भंते! तसकायत्ति कालतो कियचिरं होइ ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई” तथा “तेउक्काइए णं भंते ! तेउक्काइएत्ति कालतो केवच्चिरं होति ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेजं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा, एवं वाउक्काइयावि" इति ।सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह-'थावरस्सणंभंते! अंतर'मित्यादि सुगम नवरमसङ्ख्येया उत्सर्पिण्यवसर्पिण्य: कालत:, क्षेत्रतोऽसङ्खयेया लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम् , अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ॥'तसस्स णं भंते ! अंतर मित्यादि सुगम नवरम् 'उक्कोसेणं वणस्सइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चै १ सिध्यन्ति यावन्तः किलेह संव्यवहारराशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥१॥ For Private Jan Education in M Personel Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy